Achyutam Keshavam Lyrics in Sanskrit – Full | Lyricsbroker

Achyutam Keshavam Lyrics in Sanskrit : Achyutam Keshavam Ram Narayanam, Krishna Damodaram Vasudevam Harim.


Achyutam Keshavam Lyrics in Sanskrit


अच्युतस्याष्टकम् 


अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् |

श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ||१||


अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् |

इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ||२||


विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणीरागीणे जानकीजानये |

वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ||३||


कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे |

अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ||४||


राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः |

लक्ष्मणेनान्वितो वानरैः सेवितो-अगस्त्यसम्पुजितो राघवः पातु माम् ||५||


धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसहृद्वंशिकावादकः |

पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ||६||


विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् |

वन्यया मालया शोभितोरःस्थलं लोहिताङघ्रिद्वयं वारिजाक्षं भजे ||७||


कुञ्चितैः कुन्तलैभ्रार्जमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः |

हारकेयूरकं कङ्कणप्रोज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ||८||


अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् |

वृत्ततः सुन्दरं कर्तविश्वम्भर-स्तस्य वश्यो हरिर्जायते सत्वरम् ||९||


Achyutam Keshavam Lyrics in Sanskrit Video Song :-

Leave a Comment

error: Content is protected !!